Wednesday 7 September 2016

सुभाषितम् - कीटोऽपि सुमनःसङ्गाद्


कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥हितोपदेशः- .४५॥

अन्वयः-
   --कीटः अपि सुमनःसङ्गात् सतां शिरः आरोहति । अश्मा अपि महद्भिः सुप्रतिष्ठितः देवत्वं याति ॥

भावानुवादः-
   --कृमिरपि पुष्पसाङ्गत्येन सज्जनानां मस्तके तिष्ठति। शिलापि महात्मभिः (मन्दिरादिषु मन्त्रपूर्वकं) प्रतिष्ठितः देवत्वं प्राप्नोति॥

हिन्दी-अनुवादः-
   --पुष्पों के साथ होने से कीडा भी बड़े लोगों के शिर पर चढ़ जाता है । और बड़े लोगों से आदर प्रतिष्ठा पाकर पत्थर भी देवता बन जाता है ॥

No comments:

Post a Comment