Wednesday 7 September 2016

सुभाषितम् - पदस्थितस्य पद्मस्य




पदस्थितस्य पद्मस्य मित्रे वरुणभास्करौ।
पदच्युतस्य तस्यैव क्लेशदाहकरावुभौ ॥

अन्वयः-
    --पदस्थितस्य पद्मस्य वरुण-भास्करौ मित्रे। तस्य एव पदच्युतस्य उभौ क्लेश-दाहकरौ॥

भावानुवादः-
    --यदा कमलं तडागे भवति, तदा वरुणः सूर्यः च तस्य मित्रे भवतः। किन्तु तद्यदा स्वस्थानात् च्युतं भवति, तदा उभौ क्लेशकरः, दाहकरः च भवतः।

हिन्दी-अनुवादः-
    --जब कमल अपने स्थान पर (तालाब में) होता है तब जल के देव वरुण तथा सूर्य- दोनों उसके मित्र होते हैं। और वही कमल जब स्थानभ्रष्ट होता है, तब वरुण और सूर्य दोनों उसे क्लेश तथा दाह देनेवाले हो जाते है।

No comments:

Post a Comment