Thursday 8 September 2016

सुभाषितम् - पटुत्वं सत्यवादित्वं

पटुत्वं सत्यवादित्वं कथायोगेन बुध्यते।
अस्तब्धत्वमचापल्यं प्रत्यक्षेणावगम्यते ॥ 

अन्वयः-
     --पटुत्वं सत्यवादित्वं कथा-योगेन बुध्यते। अस्तब्धत्वम् अचापल्यं प्रत्यक्षेण अवगम्यते ॥

भावानुवादः-
     --मनुष्ये स्थितौ दक्षत्व-यथार्थवादित्व-गणौ च तेन साकं वार्तालापेन बुध्येते; किन्तु तस्य अजडत्वं, अचाञ्चल्यं तु दृष्ट्वैव अवगम्येते।

हिन्दी-अनुवादः-
     --मनुष्य में स्थित चतुराई और सत्यवादिता उसके साथ वार्तालाप करने से पता चलती है; लेकिन उसमें जो अचंचलता अथवा गंभीरता है वो तो उसे देखते ही मालूम पड़ जाता है।

3 comments:


  1. भावानुवादः-
    --मनुष्ये स्थितौ दक्षत्व-यथार्थवादित्व-गुणौ च तेन साकं वार्तालापेन बुध्येते; किन्तु तस्य अजडत्वं, अचाञ्चल्यं तु दृष्ट्वैव अवगम्येते।

    ReplyDelete
  2. हितोपदेश मित्रलाभ

    ReplyDelete