Wednesday 7 September 2016

सुभाषितम् - नाद्रव्ये निहिता




नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् ।
न व्यापारशतेनापि शुकवत् पाठ्यते बकः ॥हितोपदेशः- ०.४३॥

अन्वयः-
   --न अद्रव्ये निहिता काचित् क्रिया फलवती भवेत् । न व्यापारशतेनापि शुकवत् पाठ्यते बकः ॥

भावानुवादः-
   --अपात्रे अयोग्ये च कृतं प्रयतनं कदापि फलवन्न भवति। अनेकैः उपायैरपि बकः शुक इव (वचनानि) शिक्षयितुं न शक्यते।

हिन्दी-अनुवादः-
  --अयोग्य अपात्र में कोई भी सुधार सफल नहीं होता है । अनेक उपाय करने पर भी कोई भी बगुले को शुक (सुग्गे) की तरह कभी नहीं पढा सकता है ॥

No comments:

Post a Comment