Monday 5 September 2016

सुभाषितम् - स जीवति गुणा

स जीवति गुणा यस्य धर्मो यस्य स जीवति।
गुणधर्मविहीनो यो निष्फलं तस्य जीवितम्॥

अन्वयः-
     -- यस्य गुणाः (सन्ति) सः जीवति। यस्य धर्मः (अस्ति) सः जीवति। यः गुण-धर्म-विहीनः, तस्य जीवितं निष्फलम् ॥

भावानुवादः-
    --यस्मिन् पुरुषे गुणाः सन्ति स एव जीवति। यस्यास्ति धर्मः, स एव जीवति। गुण-धर्म-विहीनस्य जनस्य जीवनं अर्थरहितमेव।

हिन्दी-अनुवादः-
     --जिसके पास गुण हैं, तथा जिसके पास धर्म है, वही वास्तव में जी रहा है। गुण और धर्म- दोनों जिसके पास नहीं है, उसका जीवन निरर्थक है।

No comments:

Post a Comment