Friday 9 September 2016

सुभाषितम् - अप्रियाण्यापि कुर्वाणो

अप्रियाण्यापि कुर्वाणो यः प्रियः प्रिय एव सः।
दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः॥

अन्वयः-
    -- यः प्रियः, स अप्रियाणि अपि कुर्वाणः प्रियः एव। दग्ध-मन्दिर-सारे अपि वह्नौ कस्य अनादरः?॥ भावानुवादः-

भावानुवादः-
    --यद्यपि कुत्सितकर्माणि करोति, तथापि यः प्रियोऽस्ति सः प्रियः एव भवति। यः सर्वं गृहं दग्धवान्, तादृशे अपि अग्नौ कस्य अनादरो जायते?

हिन्दी-अनुवादः-
    --अप्रिय कार्य करता हो फिर भी जो अपना प्रिय है वो तो प्रिय ही रहता है। घर के सारे पदार्थ जला दिए हो फिर भी अग्नि के उपर किसे अनादर होगा?

No comments:

Post a Comment