Wednesday 14 September 2016

सुभाषितम् - अनिष्टादिष्टलाभेऽपि

अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा।
यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥

अन्वयः-
     --अनिष्टाद् इष्टलाभे अपि शुभा गतिः न जायते । यत्र विषसंसर्गः आस्ते, (तत्र) अमृतं तद् अपि मृत्यवे (भवति)॥

भावानुवादः-
    --अवाञ्छितेन साधनेन, कुत्सितरीत्या वा इष्टवस्तुनि प्राप्ते, तस्य परिणामस्तु अशुभ एव भवति। गरलयुक्तं पीयूषमपि देहान्ते कारणं भवति।

हिन्दी-अनुवादः-
    --अनिष्ट साधन से या खराब मार्ग से इच्छित वस्तु का लाभ होता हो तो भी उसका परिणाम शुभ होता नही है। विष के संसर्गवाला अमृत भी मृत्यु देनेवाला होता है।

No comments:

Post a Comment