Saturday 24 September 2016

सुभाषितम् - यत्सुखं सेवमानोऽपि


यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते।
कामं तदुपसेवेत न मूढव्रतमाचरेत्॥

अन्वयः-
   --यत्सुखं सेवमानः अपि (पुरुषः) धर्मार्थाभ्यां न हीयते, तत् (सुखं) कामम् उपसेवेत । मूढव्रतं न आचरेत् ॥

भावानुवादः-
    --यस्य सुखस्य सेवनेन धर्मस्य अर्थस्य च हानिः न भवति, तस्य उपभोगं यथेष्टं कुर्यात्। धर्मविमुखः भूत्वा कर्माणि न आचरेत्।

हिन्दी-अनुवादः-
    --जिस सुख के सेवन करते रहने पर भी (मनुष्य) धर्म और अर्थ से भ्रष्ट नहीं होता हो, तो उसका यथेष्ट सेवन करे। किन्तु मूढ व्रत (आसक्ति एवं अन्यायपूर्वक विषयसेवन) न करें।

No comments:

Post a Comment