Sunday 18 September 2016

सुभाषितम् - देयमार्तस्य शयनं

देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्।
तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ॥ (महाभारतम्, वनपर्व) 

अन्वयः-
  --आर्तस्य शयनं देयम् ; स्थित-श्रान्तस्य च आसनं देयम् ; तृषितस्य च पानीयं (देयम्) ; क्षुधितस्य च भोजनम् (देयम्) ॥

भावानुवादः-
  --आर्तस्य (रोगार्तस्य) शयनं देयम्; श्रान्तः यदि तिष्ठति, तर्हि आसनं देयम् ; तृषया क्लिष्टस्य जनस्य जलं देयं, क्षुधितस्य च भोजनं दातव्यम्।

हिन्दी-अनुवादः-
  --रोगी मनुष्य को आराम करने की सुविधा देनी चाहिए, थके हुए को बैठने के लिए आसन देना चाहिए, प्यासे को पानी देना चाहिए और भुखे को भोजन देना चाहिए।

No comments:

Post a Comment