Sunday 4 September 2016

सुभाषितम् - यथा ह्येकेन चक्रेण



यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥हितोपदेशः- .३२॥


अन्वयः-
   --एकेन चक्रेण यथा हि रथस्य गतिः वेत्, तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥

भावानुवादः-
   --यथा एकेन चक्रेण रथ अग्रे न गच्छति,  तथैव प्रयत्नेन विना भाग्यं न फलति। (भाग्ये स्थितेऽपि उद्यमेनैव फलं संसिद्ध्यति। प्रयत्नः, भाग्यं च द्वावपि रथचक्राविव।)

हिन्दी-अनुवादः-
   --जैसे एक चक्र से रथ नहीं चल सकता है, उसी प्रकार उद्योग के विना केवल भाग्य से ही सिद्धि नहीं हो सकती है ॥

No comments:

Post a Comment