दूरतः शोभते मूर्खो लम्बशाटपटावृतः।
तावच्च शोभते मूर्खो यावत्किंचिन्न भाषते॥
अन्वयः-
--मूर्खः लम्ब-शाट-पटावृतः दूरतः (एव) शोभते । मूर्खः तावत् च शोभते,
यावत् किंचित् न भाषते॥
भावानुवादः-
--बुद्धिहीनः, साडम्बर-वस्त्रादिना अलङ्कृतः दूरे स्थित एव शोभते। सः यावतपर्यन्तं मौनं तिष्ठति,
तावतपर्यन्तमेव सुष्ठु भाति। (यदि वदति, तदानीं
तस्य मूर्खत्वं प्रकटितं भवति।)
हिन्दी-अनुवादः-
--लंबी शाल तथा खेस इत्यादि
धारण किया हुआ मूर्ख दूर से शोभित होता है। लेकिन वह तब तक ही शोभित होता है जब तक
कुछ बोलता नहीं है!
No comments:
Post a Comment