Thursday 5 December 2019

विदग्धा वाक् 129 - इक्षोरग्रात् क्रमशः

इक्षोरग्रात् क्रमशः पर्वणि पर्वणि यथा विशेषरसः ।
तद्वत् सज्जनमैत्री विपरीतानां च विपरीता ॥

--नीतिद्विषष्टिका १६

इक्षोः अग्रात् क्रमशः पर्वणि पर्वणि यथा विशेषरसः । तद्वत् सज्जन-मैत्री विपरीतानां च विपरीता ॥

यथा इक्षोः अग्रात् पर्वणि पर्वणि क्रमशः विशेषरसः (निष्पद्यते) तद्वत् सज्जन-मैत्री (अपि भवति)। विपरीतानां च विपरीता (भवति) ॥

ईख के ऊपर से प्रत्येक गठान के बीच वाले भाग में जैसे विशेष रस होता है, वैसे ही सत्पुरुषों की मित्रता होती है। और उससे भिन्न (दुर्जनोंकी) विपरीत होती है। 

చెఱుకుగడ పైనుంచి క్రమంగా కాండ కాండకు విశేషరసం ఉన్నట్టే మంచివారి స్నేహం ఉంటుంది. దానికి విరుద్ధమైనవారిది (అంటే దుర్జనులది) విరుద్ధంగానే ఉంటుంది.

The friendship of noble-souls is like a sugar-cane that is sweeter from above, in every part and that of the opposite is reverse.

विदग्धा वाक् 128 - गच्छन् शरीरविच्छेदौ

गच्छन् शरीरविच्छेदावपि भस्मावशेषताम् ।
कर्पूरः सौरभेणेव जन्तुः ख्यात्यानुमीयते ॥

--राजतरङ्गिणी
 
गच्छन् शरीर-विच्छेदौ अपि भस्म अवशेषताम् । कर्पूरः सौरभेण इव जन्तुः ख्यात्या अनुमीयते ॥
 
शरीर-विच्छेदौ अपि भस्म-अवशेषतां गच्छन् कर्पूरः सौरभेण इव जन्तुः ख्यात्या अनुमीयते ॥
 
अपने शरीर के नाश होते हुए भी, भस्म (की स्थिति) होते हुए, कपूर के सुगंध के समान जीव अपने अच्छे नाम के कारण जाना जाता है।
 
శరీరం నాశనమవుతున్నప్పుడు కూడా, బూడిదగా మారుతున్నప్పుడు కర్పూరపు సుగంధం వలె, జీవుడు తన మంచిపేరు చేత తెలియబడతాడు.
 
Even while the body is pershing, and reaching the state of ashes, a man, like the camphor by its fragrance, is known by his good name.

विदग्धा वाक् 127 - गुरुं प्रयोजनोद्देशाद्

गुरुं प्रयोजनोद्देशादर्चयन्ति न भक्तितः ।
दुग्धदात्रीति गौर्गेहे पोष्यते न तु धर्मतः ॥

--दृष्टान्तकलिकाशतकम् ९३


गुरुं प्रयोजन-उद्देशाद् अर्चयन्ति न भक्तितः । दुग्ध-दात्री इति गौः गेहे पोष्यते न तु धर्मतः ॥


गुरुं प्रयोजन-उद्देशाद् अर्चयन्ति। भक्तितः न। गौः दुग्ध-दात्री इति गेहे पोष्यते। धर्मतः तु न ॥


गुरुजन की किसी लाभ के विचार से सेवा करते हैं, भक्ति से नहीं। (इसका उदाहरण) दूध देती है, अतः गाय घर में पाली जाती है, धर्मभाव से नहीं।


(పెద్ద(ల)ను లేదా) గురువును ఏదో లాభం ఆశించి సేవిస్తారే కానీ భక్తితో కాదు. పాలు ఇచ్చేది కనుక గోవును ఇంట్లో పోషిస్తారే కానీ ధర్మభావంతో కాదు.


They serve Guru with the aim of (getting) some benefit, but not out of devotion. (And example) A cow is raised in a house because it gives milk, not out of a feeling of dharma.

विदग्धा वाक् 126 - यस्मिन् रुष्टे भयं

यस्मिन् रुष्टे भयं नास्ति तुष्टे नैव धनागमः ।
निग्रहानुग्रहौ न स्तः स रुष्टः किं करिष्यति ॥

--सुभाषितरत्नभाण्डागारः पु. १५७.१७६

यस्मिन् रुष्टे भयं न अस्ति तुष्टे न एव धनागमः । निग्रह-अनुग्रहौ न स्तः सः रुष्टः किं करिष्यति ॥

यस्मिन् रुष्टे भयं न अस्ति, तुष्टे धनागमः न एव, (यस्य) निग्रह-अनुग्रहौ न स्तः, सः रुष्टः किं करिष्यति ॥

जिसके क्रुद्ध होने पर (हमारा) भय नहीं है, सन्तुष्ट होने पर धनलाभ नहीं होपाता, जिसका अनुग्रह और निग्रह नहीं हैं, वह क्रोधित होकर क्या करेगा? 

ఎవరికి కోపం వస్తే మనకు భయం ఉండదో, ఎవరు సంతోషిస్తే మనకు ధనలాభం జరగో, ఎవరికి నిగ్రహం అనుగ్రం లేవో, అతడికి కోపం వస్తే మాత్రంఏం చేస్తాడు?

The one who, when angry, does not cause any fear (in us), on whose being happy, there is no income, one who does not have restraint or kindness- what does he do, even if he gets angry?

विदग्धा वाक् 125 - सुवर्णपुष्पां पृथिवीं

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्॥

--महाभारतम् ५.३५.७४


सुवर्ण-पुष्पां पृथिवीं चिन्वन्ति पुरुषाः त्रयः । शूरः च कृतविद्यः च यः च जानाति सेवितुम्॥


त्रयः पुरुषाः सुवर्ण-पुष्पां पृथिवीं चिन्वन्ति- शूरः च, कृतविद्यः च, यः च सेवितुं जानाति ॥


तीन लोग पृथ्वी (से) सुवर्णपुष्प को तोड़ते हैं- एक शूरवीर, एव विद्यावान्, और एक जो सेवा करना जानता है।


ఈ భూమి (మీద నుండి) బంగారు పువ్వును ముగ్గురు పురుషులు కోస్తారు- ఒకడు శూరుడు, ఒకడు చదువుకున్నవాడు, మరొకడు సేవచేయటం తెలిసినవాడు.


Three men pluck the golden flower (from) the earth- the valorous, learned and the one who knows to serve.

विदग्धा वाक् 124 - वितरति यावद्दाता

वितरति यावद्दाता तावत् सकलोऽपि भवति कलभाषी ।
विरते पयसि घनेभ्यः शाम्यन्ति शिखण्डिनां ध्वनयः ॥

--सुभाषितरत्नभाण्डागारः १७१.१९२

वितरति यावद् दाता तावत् सकलः अपि भवति कलभाषी । विरते पयसि घनेभ्यः शाम्यन्ति शिखण्डिनां ध्वनयः ॥

यावद् दाता वितरति तावत् सकलः अपि कलभाषी भवति । घनेभ्यः पयसि विरते शिखण्डिनां ध्वनयः शाम्यन्ति ॥

जब तक दाता (धन)वितरण करता है, तब तक हरकोई बहुत मीठेबोल वाला होता है। मेघों से पानी गिरना बंद होने पर मोरों की ध्विनयाँ शांत होजातीं हैं।

దాత ధనం వితరణ చేసినంతసేపూ ప్రతివాడూ మధురంగా మాట్లాడేవాడు అవుతాడు. మేఘాలనుండి నీరురావటం ఆగిపోతే నెమళ్ళ ధ్వనులు తగ్గిపోతాయి. 

Until the generous person gives out (charity), everyone speaks sweetly. On stopping of water from the clouds, peacocks’ sounds decrease.

विदग्धा वाक् 122 - न कदापि बहिर्यान्ति

न कदापि बहिर्यान्ति मानिनां प्रार्थनागिरः ।
यदि निर्यातुमिच्छन्ति तदा प्राणपुरस्सराः ॥

--सूक्तिमाला ६१२

न कदा अपि बहिः यान्ति मानिनां प्रार्थना-गिरः । यदि निर्यातुम् इच्छन्ति तदा प्राण-पुरःसराः ॥

मानिनां प्रार्थनागिरः कदा अपि बहिः न यान्ति । यदि निर्यातुम् इच्छन्ति, तदा प्राणपुरःसराः ॥

स्वाभिमानी लोगों के मिन्नतें कभी बाहर नहीं निकलती। जब निकलना चाहते हैं, तब प्राणों के साथ बाहर आते हैं।

అభిమానస్తుల యొక్క వేడుకోలుమాటలు ఎప్పుడూ బయటకు రావు. ఒకవేళ రావాలనుకుంటే ప్రాణాలు వాటికి ముందుగా కలిగి వస్తాయి.

The words of entreaty do not come out of strong-minded/self-respectful persons. If ever they happen to come out, then it is along with their vital air.