Thursday 8 September 2016

सुभाषितम् - यथोदयगिरेर्द्रव्यं


यथोदयगिरेर्द्रव्यं सन्निकर्षेण दीप्यते ।
तथा सत्सन्निधानेन हीनवर्णोऽपि दीप्यते ॥हितोपदेशः- .४६॥

अन्वयः-
   --यथा द्रव्यं उदयगिरेः सन्निकर्षेण दीप्यते तथा हीनवर्णः अपि सत्सन्निधानेन दीप्यते ॥

भावानुवादः-
   --यथा उदयाचलस्य समीपवर्तिवस्तु सर्वं (सूर्योदयवेलायां तत्किरणपातेन) कान्तियुक्तं भवति, तथैव सज्जनानां साङ्गत्ये वासं कृत्वा प्रतिभाहीनोऽपि बुद्धिमान् सञ्जायते॥

हिन्दी-अनुवादः-
   --जैसे उदयाचल की सभी वस्तु सूर्य के समीप होने से चमकने लगती हैं, उसी तरह सज्जनों के संसर्ग से मूर्ख भी विद्वानों जाते हैं ॥

No comments:

Post a Comment