Sunday 18 September 2016

सुभाषितम् - पञ्चभिर्याति दासत्वं




पञ्चभिर्याति दासत्वं पुराणैः कोऽपि मानवः।
कोऽपि लक्षैः कृती कोऽपि लक्षैरपि न लभ्यते ॥

अन्वयः-
  --पञ्चभिः पुराणैः कः अपि मानवः दासत्वं याति । कः अपि लक्षैः कृती (भवति), कः अपि लक्षैः अपि न लभ्यते ॥

भावानुवादः-
  --कश्चित् पुरुषः पञ्चभिः पणैः (रूप्यकैः) दासो भवति; कश्चित् लक्षैः नाणकैः प्राप्यते; परं तु लक्षैरपि रूप्यकैः कदाचित् दासो न लभ्यते।

हिन्दी-अनुवादः-
  --कोई (केवल) पांच रूपये में भी नौकरी कर लेता है और किसी मनुष्य को लाखों रूपये देने पड़ते है तथा कोई निष्णात मनुष्य लाखों रूपये देने पर भी मिल नहीं पाता है।

No comments:

Post a Comment