Monday 5 September 2016

सुभाषितम् - सर्वे यत्र विनेतारः



सर्वे यत्र विनेतारः सर्वे यत्राभिमानिनः।
सर्वे महत्त्वमिच्छन्ति कुलं तदवसीदति॥

अन्वयः-
यत्र सर्वे विनेतारः, यत्र सर्वे अभिमानिनः, (यत्र) सर्वे महत्त्वम् इच्छन्ति, तत् कुलं अवसीदति॥

भावानुवादः-
     --यस्मिन् वंशे (सदसि वा) सर्वे जनाः नेतारः सन्ति, दर्पयुक्ताः सन्ति, सर्वे च महत्त्वं प्राप्तुम् इच्छन्ति, स वंशः (सदः वा) नश्यति।

हिन्दी-अनुवादः-
     --जहाँ सभी नेता हो, सभी गर्वी हो और सभी महत्ता प्राप्त करना चाहते हों- उस कुल (या समूह) का नाश हो जाता है।

No comments:

Post a Comment