Wednesday 7 September 2016

सुभाषितम् - न व्याप्तिरेषा गुणिनो




न व्याप्तिरेषा गुणिनो गुणवाञ्जायते ध्रुवम्।
चन्दनोऽनलसंदग्धो न भस्म सुरभिः क्वचित्॥

अन्वयः-
  --गुणिनो ध्रुवं गुणवान् (एव) जायते - (इति) एषा न व्याप्तिः। चन्दन अनलसंदग्धो भस्म न क्वचित् सुरभिः ।

भावानुवादः-
  --गुणवतोः मातापित्रोः जायमानम् अपत्यं गुणी एव भवति इति नास्ति नियमः। अग्निना दग्धे चन्दनस्य भस्मेपि सौरभं न भवति। (चन्दन-अग्निसंयोगात् जायमाने भस्मे चन्दनस्य सुगन्धो न भवति।)

हिन्दी-अनुवादः-
--गुणवान माता-पिता से हमेशा गुणवान संतान ही उत्पन्न होती है ऐसा कोई नियम नहीं है। अग्नि से जली हुई लकड़ी चंदन की होने पर भी, उसका भस्म कभी भी सुगंधवाला नहीं होता।

No comments:

Post a Comment