महाजनस्य संसर्गः कस्य
नोन्नतिकारकः।
पद्मपत्रस्थितं वारि
धत्ते मुक्ताफलश्रियम्॥
अन्वयः-
--महाजनस्य संसर्गः कस्य उन्नतिकारकः न (भवति)? पद्मपत्रस्थितं वारि मुक्ताफलश्रियं
धत्ते ॥
भावानुवादः-
--महात्मनां सांगत्यं कस्य जनस्य (कृते) प्रवृद्धिकारकं
न भवति? कमलपर्णे स्थितं
जलं मौक्तिकमिव शोभते।
हिन्दी-अनुवादः-
--सत्पुरुषों की संगति किसके लिए प्रगतिकारक
नहीं होती? कमल के पर्ण पर
स्थित जलबिंदु मोती के समान शोभा धारण करता है।
No comments:
Post a Comment