Wednesday 7 September 2016

सुभाषितम् - गुणेन स्पृहणीयः

गुणेन स्पृहणीयः स्यान्न रूपेण युतो जनः।
सौगन्ध्यवर्ज्यं नादेयं पुष्पं कान्तमपि स्वयम्॥

अन्वयः-
    -- जनः गुणेन (युतः) स्पृहणीयः स्यात्। न रूपेण युतः। सौगन्ध्य-वर्ज्यं पुष्पं स्वयं कान्तम् अपि न आदेयम् ॥

भावानुवादः-
    -- सद्गुणैः युक्तः मनुष्यः वाञ्छनीयः, न तु सुन्दररूपेण युक्तः। (अस्योदाहरणम्) सुन्दरमपि कुसुमं यदि सौरभहीनमस्ति तर्हि न तत् स्वीकर्तव्यम्।

हिन्दी-अनुवादः-
     -- गुण से युक्त मनुष्य की चाहत होनी चाहिए, सुंदर रूप से युक्त (होने के कारण) की नहीं। फूल बहुत सुंदर हो, लेकिन सुगंधविहीन हो, तो उसे कोई लेना नहीं चाहिए।

No comments:

Post a Comment