Sunday 11 September 2016

सुभाषितम् - मन्ये सत्यमहं लक्ष्मीः



मन्ये सत्यमहं लक्ष्मीः समुद्राद्धूलिरुत्थिता।
पश्यन्तोऽपि न पश्यन्ति सन्तो विह्वललोचनाः॥ 

अन्वयः-
    --“लक्ष्मीः समुद्राद् उत्थिता धूलिः इति अहं सत्यम् मन्ये । (जनाः) विह्वललोचनाः सन्तः पश्यन्तः अपि न पश्यन्ति ॥ 

भावानुवादः-
    --"लक्ष्मीस्तु समुद्राद् उत्थिता धूलि-समानास्ति" इति अहं मन्ये । धनेन जनाः विक्लवनयनाः भवन्ति; सर्वं दृष्ट्वापि अन्धा इव भवन्ति।

हिन्दी-अनुवादः-
    --मैं मानता हूँ कि लक्ष्मी (धन) वास्तव में समुद्र में से उठी धूल जैसी है; क्योंकि उस धन से विह्वल हुई आँखोंवाले लोग आंखें होने पर भी अंधे हो जाते है।

No comments:

Post a Comment