Wednesday 7 September 2016

सुभाषितम् - व्यसनं प्राप्य



व्यसनं प्राप्य यो मोहात् केवलं परिदेवयेत्।
क्रन्दनं वर्धयत्येव तस्यान्तं नाधिगच्छति॥

अन्वयः-
    -- यो व्यसनं प्राप्य केवलं मोहात् परिदेवयेत्, (तस्य जनस्य) क्रन्दनं वर्धयति एव। तस्य (क्रन्दनस्य) अन्तं नाधिगच्छति॥

भावानुवादः-
    --विपत्तिकाले यः केवलं मूढबुद्धिर्भूत्वा शोकमेव करोति तस्य दुःखे वृद्धिरेव भवति। दुःखास्यान्तं न प्राप्नोति सः।

हिन्दी-अनुवादः-
    --कष्ट आने पर जो मनुष्य मूढ़ता के कारण केवल दुःख ही करता रहता है, वो दुःख को ही बढ़ाता है। वो दुःख के अंत को नहीं पा सकता।

No comments:

Post a Comment