Monday 5 September 2016

सुभाषितम् - क्षमा शस्त्रं



क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति॥

अन्वयः-
   -- यस्य करे क्षमा शस्त्रं (भवति, तस्य) दुर्जनः किं करिष्यति? वह्निः अतृणे पतितः स्वयमेव उपशाम्यति॥

भावानुवादः-
    --यस्य हस्ते क्षमानामकं आयुधमस्ति तस्य दुष्टजनः कां हानिं कर्तुं शक्नोति? तृणरहिते भूमौ पतित अग्निः  स्वयमेव शान्तो भवति।

हिन्दी-अनुवादः-
    --जिसके हाथ में क्षमारूपी शस्त्र है, उसका दुर्जन क्या बिगाड़ सकेगा? घासरहित स्थल पर गिरा हुआ अग्नि स्वयं ही शांत हो जाता है।

No comments:

Post a Comment