Wednesday 7 September 2016

सुभाषितम् - शुचित्वं त्यागिता




शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः।

दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः॥


अन्वयः-
    --शुचित्वं, त्यागिता, शौर्यं, सुखदुःखयोः सामान्यं, दाक्षिण्यं, च अनुरक्तिः च सत्यता च सुहृद्गुणाः॥

भावानुवादः-
    --हृदयस्य निर्मलत्वं, त्यागवृत्तिः, वीरत्वं, सुखे च दुःखे च समानभावः, पटुता, अनुरागः, सत्यता- इमे मित्रस्य गुणाः सन्ति।

हिन्दी-अनुवादः-
     --हृदय की निर्मलता, त्यागभावना, शूरता, सुख और दुःख में समान भाव, चतुराई, अनुराग और सच्चाई- यह सब मित्र के गुण है।

No comments:

Post a Comment