Showing posts with label Sanskrit. Show all posts
Showing posts with label Sanskrit. Show all posts

Thursday, 5 December 2019

विदग्धा वाक् 129 - इक्षोरग्रात् क्रमशः

इक्षोरग्रात् क्रमशः पर्वणि पर्वणि यथा विशेषरसः ।
तद्वत् सज्जनमैत्री विपरीतानां च विपरीता ॥

--नीतिद्विषष्टिका १६

इक्षोः अग्रात् क्रमशः पर्वणि पर्वणि यथा विशेषरसः । तद्वत् सज्जन-मैत्री विपरीतानां च विपरीता ॥

यथा इक्षोः अग्रात् पर्वणि पर्वणि क्रमशः विशेषरसः (निष्पद्यते) तद्वत् सज्जन-मैत्री (अपि भवति)। विपरीतानां च विपरीता (भवति) ॥

ईख के ऊपर से प्रत्येक गठान के बीच वाले भाग में जैसे विशेष रस होता है, वैसे ही सत्पुरुषों की मित्रता होती है। और उससे भिन्न (दुर्जनोंकी) विपरीत होती है। 

చెఱుకుగడ పైనుంచి క్రమంగా కాండ కాండకు విశేషరసం ఉన్నట్టే మంచివారి స్నేహం ఉంటుంది. దానికి విరుద్ధమైనవారిది (అంటే దుర్జనులది) విరుద్ధంగానే ఉంటుంది.

The friendship of noble-souls is like a sugar-cane that is sweeter from above, in every part and that of the opposite is reverse.

विदग्धा वाक् 128 - गच्छन् शरीरविच्छेदौ

गच्छन् शरीरविच्छेदावपि भस्मावशेषताम् ।
कर्पूरः सौरभेणेव जन्तुः ख्यात्यानुमीयते ॥

--राजतरङ्गिणी
 
गच्छन् शरीर-विच्छेदौ अपि भस्म अवशेषताम् । कर्पूरः सौरभेण इव जन्तुः ख्यात्या अनुमीयते ॥
 
शरीर-विच्छेदौ अपि भस्म-अवशेषतां गच्छन् कर्पूरः सौरभेण इव जन्तुः ख्यात्या अनुमीयते ॥
 
अपने शरीर के नाश होते हुए भी, भस्म (की स्थिति) होते हुए, कपूर के सुगंध के समान जीव अपने अच्छे नाम के कारण जाना जाता है।
 
శరీరం నాశనమవుతున్నప్పుడు కూడా, బూడిదగా మారుతున్నప్పుడు కర్పూరపు సుగంధం వలె, జీవుడు తన మంచిపేరు చేత తెలియబడతాడు.
 
Even while the body is pershing, and reaching the state of ashes, a man, like the camphor by its fragrance, is known by his good name.

विदग्धा वाक् 127 - गुरुं प्रयोजनोद्देशाद्

गुरुं प्रयोजनोद्देशादर्चयन्ति न भक्तितः ।
दुग्धदात्रीति गौर्गेहे पोष्यते न तु धर्मतः ॥

--दृष्टान्तकलिकाशतकम् ९३


गुरुं प्रयोजन-उद्देशाद् अर्चयन्ति न भक्तितः । दुग्ध-दात्री इति गौः गेहे पोष्यते न तु धर्मतः ॥


गुरुं प्रयोजन-उद्देशाद् अर्चयन्ति। भक्तितः न। गौः दुग्ध-दात्री इति गेहे पोष्यते। धर्मतः तु न ॥


गुरुजन की किसी लाभ के विचार से सेवा करते हैं, भक्ति से नहीं। (इसका उदाहरण) दूध देती है, अतः गाय घर में पाली जाती है, धर्मभाव से नहीं।


(పెద్ద(ల)ను లేదా) గురువును ఏదో లాభం ఆశించి సేవిస్తారే కానీ భక్తితో కాదు. పాలు ఇచ్చేది కనుక గోవును ఇంట్లో పోషిస్తారే కానీ ధర్మభావంతో కాదు.


They serve Guru with the aim of (getting) some benefit, but not out of devotion. (And example) A cow is raised in a house because it gives milk, not out of a feeling of dharma.

विदग्धा वाक् 126 - यस्मिन् रुष्टे भयं

यस्मिन् रुष्टे भयं नास्ति तुष्टे नैव धनागमः ।
निग्रहानुग्रहौ न स्तः स रुष्टः किं करिष्यति ॥

--सुभाषितरत्नभाण्डागारः पु. १५७.१७६

यस्मिन् रुष्टे भयं न अस्ति तुष्टे न एव धनागमः । निग्रह-अनुग्रहौ न स्तः सः रुष्टः किं करिष्यति ॥

यस्मिन् रुष्टे भयं न अस्ति, तुष्टे धनागमः न एव, (यस्य) निग्रह-अनुग्रहौ न स्तः, सः रुष्टः किं करिष्यति ॥

जिसके क्रुद्ध होने पर (हमारा) भय नहीं है, सन्तुष्ट होने पर धनलाभ नहीं होपाता, जिसका अनुग्रह और निग्रह नहीं हैं, वह क्रोधित होकर क्या करेगा? 

ఎవరికి కోపం వస్తే మనకు భయం ఉండదో, ఎవరు సంతోషిస్తే మనకు ధనలాభం జరగో, ఎవరికి నిగ్రహం అనుగ్రం లేవో, అతడికి కోపం వస్తే మాత్రంఏం చేస్తాడు?

The one who, when angry, does not cause any fear (in us), on whose being happy, there is no income, one who does not have restraint or kindness- what does he do, even if he gets angry?

विदग्धा वाक् 125 - सुवर्णपुष्पां पृथिवीं

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्॥

--महाभारतम् ५.३५.७४


सुवर्ण-पुष्पां पृथिवीं चिन्वन्ति पुरुषाः त्रयः । शूरः च कृतविद्यः च यः च जानाति सेवितुम्॥


त्रयः पुरुषाः सुवर्ण-पुष्पां पृथिवीं चिन्वन्ति- शूरः च, कृतविद्यः च, यः च सेवितुं जानाति ॥


तीन लोग पृथ्वी (से) सुवर्णपुष्प को तोड़ते हैं- एक शूरवीर, एव विद्यावान्, और एक जो सेवा करना जानता है।


ఈ భూమి (మీద నుండి) బంగారు పువ్వును ముగ్గురు పురుషులు కోస్తారు- ఒకడు శూరుడు, ఒకడు చదువుకున్నవాడు, మరొకడు సేవచేయటం తెలిసినవాడు.


Three men pluck the golden flower (from) the earth- the valorous, learned and the one who knows to serve.

विदग्धा वाक् 124 - वितरति यावद्दाता

वितरति यावद्दाता तावत् सकलोऽपि भवति कलभाषी ।
विरते पयसि घनेभ्यः शाम्यन्ति शिखण्डिनां ध्वनयः ॥

--सुभाषितरत्नभाण्डागारः १७१.१९२

वितरति यावद् दाता तावत् सकलः अपि भवति कलभाषी । विरते पयसि घनेभ्यः शाम्यन्ति शिखण्डिनां ध्वनयः ॥

यावद् दाता वितरति तावत् सकलः अपि कलभाषी भवति । घनेभ्यः पयसि विरते शिखण्डिनां ध्वनयः शाम्यन्ति ॥

जब तक दाता (धन)वितरण करता है, तब तक हरकोई बहुत मीठेबोल वाला होता है। मेघों से पानी गिरना बंद होने पर मोरों की ध्विनयाँ शांत होजातीं हैं।

దాత ధనం వితరణ చేసినంతసేపూ ప్రతివాడూ మధురంగా మాట్లాడేవాడు అవుతాడు. మేఘాలనుండి నీరురావటం ఆగిపోతే నెమళ్ళ ధ్వనులు తగ్గిపోతాయి. 

Until the generous person gives out (charity), everyone speaks sweetly. On stopping of water from the clouds, peacocks’ sounds decrease.

विदग्धा वाक् 122 - न कदापि बहिर्यान्ति

न कदापि बहिर्यान्ति मानिनां प्रार्थनागिरः ।
यदि निर्यातुमिच्छन्ति तदा प्राणपुरस्सराः ॥

--सूक्तिमाला ६१२

न कदा अपि बहिः यान्ति मानिनां प्रार्थना-गिरः । यदि निर्यातुम् इच्छन्ति तदा प्राण-पुरःसराः ॥

मानिनां प्रार्थनागिरः कदा अपि बहिः न यान्ति । यदि निर्यातुम् इच्छन्ति, तदा प्राणपुरःसराः ॥

स्वाभिमानी लोगों के मिन्नतें कभी बाहर नहीं निकलती। जब निकलना चाहते हैं, तब प्राणों के साथ बाहर आते हैं।

అభిమానస్తుల యొక్క వేడుకోలుమాటలు ఎప్పుడూ బయటకు రావు. ఒకవేళ రావాలనుకుంటే ప్రాణాలు వాటికి ముందుగా కలిగి వస్తాయి.

The words of entreaty do not come out of strong-minded/self-respectful persons. If ever they happen to come out, then it is along with their vital air.

विदग्धा वाक् 121 - सन्तोषक्षतये

सन्तोषक्षतये पुंसामाकस्मिकधनागमः ।
सरसां सेतुभेदाय वर्षौघः स च न स्थिरः ॥

--सुभाषितमञ्जरी पु ५०९.५८६


सन्तोष-क्षतये पुंसाम् आकस्मिक-धन-आगमः । सरसां सेतु-भेदाय वर्षौघः सः च न स्थिरः ॥


पुंसां सन्तोषक्षतये आकस्मिकधनागमः । वर्षौघः सरसां सेतुभेदाय, सः च स्थिरः न ॥


मनुष्यों के संतुष्टि को नष्टकरने के लिए ही अकस्मात् धन आपड़ता है। तालाब के पुल को तोड़ने के लिए ही बारिश में बाढ़ होता है। वह स्थिर नहीं है।


మనుషుల సంతోషాన్ని హరించటానికే అకస్మాత్తుగా ధనం వచ్చిపడుతుంది. చెరువుల ఆనకట్టలు తెగిపోవటానికే వర్షాకాలపు వరద. అది స్థిరంగా నిలవదు.


The sudden arrival of money is for destroying the happiness of people. Flood in rainy season is for breaking bridges. It is not stable.

विदग्धा वाक् 120 - उपकर्तुं यथा स्वल्पः

उपकर्तुं यथा स्वल्पः समर्थो न तथा महान्।
प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः ॥

--सुभाषितमञ्जरी पु. ३८९.८५
 
उपकर्तुं यथा स्वल्पः समर्थः न तथा महान्। प्रायः कूपः तृषां हन्ति सततं न तु वारिधिः ॥
 
यथा स्वल्पः उपकर्तुं समर्थः, तथा महान् न। प्रायः कूपः तृषां सततं हन्ति, वारिधिः न तु ॥
 
जिसप्राकर उपकार करने में अल्पव्यक्ति समर्थ होसकता है, वैसे महान् व्यक्ति समर्थ नहीं हुआ करता है। अधिकतर कुआ ही नित्य प्यास को बुझाता है, न कि समुद्र।
 
అల్పుడు ఉపకారం చేయటంలో సమర్థుడైనట్టు గొప్పవాడు కాడు. ఎక్కువగా బావి ఎల్లప్పుడూ దాహాన్ని తీరుస్తుంది, కానీ సముద్రం తీర్చదు.
 
The slight one is capable of extending help, but a great one is not so. Often, it is the well that always quenches thirst, but not the sea.

विदग्धा वाक् 119 - कालाशी स्वल्पसन्तुष्टः

कालाशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः ।
प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः ॥

--चाणक्यनीतिशतकम् ६९
 
कालाशी स्वल्प-सन्तुष्टः सुनिद्रः शीघ्रचेतनः । प्रभुभक्तः च शूरः च ज्ञातव्याः षट् शुनः गुणाः ॥
 
कालाशी, स्वल्पसन्तुष्टः, सुनिद्रः, शीघ्रचेतनः, प्रभुभक्तः च, शूरः च -षट् शुनः गुणाः ज्ञातव्याः ॥
 
(कुत्ता) समय पर खाता है, थोड़े में सन्तुष्ट होता है, अच्छी नींद लेता है, जल्दी जगजाता है, स्वामीभक्त, और शूर होता है- यह छ गुण कुत्ते से सीखने योग्य हैं।
 
(కుక్క) వేళకు తినునది, కొద్దితో సంతృప్తి పడునది, బాగా నిద్రపోవునది, వెంటనే మేలుకొనునది, స్వామిభక్తి కలది, వీరత్వం కలిగినది – ఈ ఆరు గుణాలు కుక్క నుండి నేర్వవలసినవి.
 
(A dog) eats on time, is satisfied with a little, takes good sleep, is quickly wakeful, is loyal to the master, valorous- these six qualities need to be learnt from a dog.

विदग्धा वाक् 118 - दरिद्रान् भर कौन्तेय

दरिद्रान् भर कौन्तेय समृद्धान् न कदाचन ।
व्याधितस्यौषधं पथ्यं नीरोगस्य किमौषधैः ॥

--सूक्तमाला १०८

दरिद्रान् भर कौन्तेय समृद्धान् न कदाचन । व्याधितस्य औषधं पथ्यं नीरोगस्य किम् औषधैः ॥

कौन्तेय, दरिद्रान् भर। समृद्धान् कदाचन न। व्याधितस्य औषधं पथ्यं, नीरोगस्य औषधैः किम्? ॥

ఓ కుంతీనందనా, పేదవారిని పోషించు. ధనవంతులను కాదు. రోగం ఉన్నవాడికి మందు పథ్యం పెట్టాలి కానీ ఏరోగమూ లేనివాడికి మందులతో పనేంటి?

हे कुन्ती नंदन, धनहीनों को सहारा दो, पर जो भरेपूरे हैं, उनको कभी मत देना। (इसका उदाहरण) जो रोगी है, उसके लिए दवाई की आवश्यकता है, जो रोगी है ही नहीं, उसका औषधों से क्या करना है?

O son of Kunti, Support the poor and needy, (but) never the prosperous ones. Medical specific diet is for the ill; what is the use of medicines for the healthy?

विदग्धा वाक् 117 - मित्रस्वजनबन्धूनां

मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः ।
आपन्निकषपाषाणे नरो जानाति सारताम्॥

--सुभाषितसुधानिधिः पु १३१.७

मित्र-स्वजन-बन्धूनां बुद्धेः धैर्यस्य च आत्मनः । आपत् निकष-पाषाणे नरः जानाति सारताम्॥

नरः मित्र-स्वजन-बन्धूनाम्, आत्मनः बुद्धेः, धैर्यस्य च सारताम् आपत् निकष-पाषाणे जानाति ॥

व्यक्ति अपने मित्र, परिवार जन, बन्धु, अपनी बुद्धि, व धैर्य के बल को ‘कठिन समय’ नाम के कसौटी पर जान सकता है। 

మనిషి తన స్నేహితులు, కుటుంబసదస్యులు, బంధువులు, తన బుద్ధి, ధైర్యం- అనే వాటన్నింటి గట్టితనాన్ని ‘కష్టకాల’మనే గీటురాయి మీదే తెలుసుకోగలుగుతాడు.

A man learns about the substance of (his) friends, own people, relatives, intelligence and courage of one’s self- upon the touch stone called ‘(time of) difficulty’.


विदग्धा वाक् 116 - युद्धं च प्रातरुत्थानं

युद्धं च प्रातरुत्थानं भोजनं सह बन्धुभिः ।
स्त्रियमापद्गतां रक्षेच्चतुः शिक्षेत कुक्कुटात्॥

--चाणक्यनीतिशतकम् ७२

युद्धं च प्रातः उत्थानं भोजनं सह बन्धुभिः । स्त्रियम् आपद्गतां रक्षेत् चतुः शिक्षेत कुक्कुटात्॥

युद्धं च, प्रातः उत्थानं, बन्धुभिः सह भोजनं, आपद्गतां स्त्रियं रक्षेत्- (इति) कुक्कुटात् चतुः शिक्षेत ॥

युद्ध करना, प्रातः काल (शीघ्र ही नींद से) उठजाना, अपने बन्धुओं के साथ खाना, कठिनाई के समय में स्त्री की रक्षा करना- यह चार बातें मुरगे से सीखना चाहिए।

యుద్ధం చేయటం, ఉదయాన్నే (పెందలకడే నిద్ర) లేవటం, బంధువులతో కలిసి భుజించటం, ఆపదలో స్త్రీని కాపాడటం- ఈ నాలుగు విషయాలను కోడినుండి నేర్చుకోవాలి.

Fighting, waking up early in the morning, eating along with relatives, and (that) one should protect a woman in a difficulty- these four should be learnt from a cock.

विदग्धा वाक् 115 - यथा मधु समाधत्ते

यथा मधु समाधत्ते रक्षन् पुष्पाणि षट्पदः ।
तद्वदर्थान् मनुष्येभ्यः आदद्यादविहिंसया ॥

--सुभाषितसुधानिधिः ८५.३

यथा मधु समाधत्ते रक्षन् पुष्पाणि षट्पदः । तद्वद् अर्थान् मनुष्येभ्यः आदद्याद् अविहिंसया ॥

यथा षट्पदः पुष्पाणि रक्षन् मधु समाधत्ते, तद्वद् मनुष्येभ्यः अर्थान् अविहिंसया आदद्याद् ॥

जिसप्रकार भौंरा फूलों की रक्षा करती हुई शहद को लेती है, उसीप्रकार मनुष्यों को पीड़ित किये बिना उनसे (कररूप में) धन को ग्रहण करना चाहिए।

తుమ్మెద పూవులను కాపాడుతూ తేనెను గ్రహించినట్టే, ప్రజలనుండి (శిస్తులకై) ధనాన్ని (వారిని) హింసించకుండా తీసుకోవాలి.

A honey-bee acquires honey while protecting the flowers; similarly money (for tax) must be collected from people without any violence.

विदग्धा वाक् 114 - न शापो नाभिचरणं

न शापो नाभिचरणं न वह्निर्न विषं तथा ।
नास्त्राणि न च शस्त्राणि यथा तीक्ष्णतमा क्षमा ॥

--सङ्कल्पर्द्ध्वोदयम् ८.७९

न शापः न अभिचरणं न वह्निः न विषं तथा । न अस्त्राणि न च शस्त्राणि यथा तीक्ष्ण-तमा क्षमा ॥

शापः, अभिचरणं, वह्निः, विषं, अस्त्राणि, शस्त्राणि च न तथा तीक्ष्णतमाः यथा क्षमा (तीक्ष्णतमा) ॥

शाप, कालाजादू, आग, विष, अस्त्र, शस्त्र – कोई भी उतना तीक्ष्ण नहीं है, जितनी क्षमा।

శాపం, క్షుద్రశక్తిప్రయోగం, నిప్పు, విషం, అస్త్రాలు, శస్త్రాలు- ఇవేవీ క్షమాగుణమంత తీక్ష్ణమైనవి కావు.

Curse, black magic, fire, poison, weapons, arms – none of these are as sharp as forgiveness.




विदग्धा वाक् 113 - तावद् भयाद्धि

तावद् भयाद्धि भेतव्यं यावद्भयमनागतम्।
आगतं तु भयं वीक्ष्य प्रहर्तव्यमभीतवत् ॥

--सुभाषितमञ्जरी ४१५.१८५

तावद् भयाद् हि भेतव्यं यावद् भयम् अनागतम्। आगतं तु भयं वीक्ष्य प्रहर्तव्यम् अभीतवत् ॥

यावद् भयम् अनागतं, तावद् हि भयाद् भेतव्यम् । भयं तु आगतं वीक्ष्य अभीतवत् प्रहर्तव्यम् ॥

भयानक घटना से तभी तक डरना चाहिए, जब तक वह (पास) नहीं आता। भयानक घटना के (सामने) आने पर उसे देखकर निर्भीक के समान उस पर प्रहार करना चाहिए।

భయంకరఘటన జరగనంతవరకే దానివల్ల భయపడాలి. భయంకరఘటన (ఎదురు) పడినప్పుడు దాన్ని చూసి, భయంలేనివానివలె దెబ్బకొట్టాలి.

One should be afraid of a danger, only until it does not happen; but having seen a danger occurring, one should hit it like a fearless one.

विदग्धा वाक् 112 - गोशतादपि गोक्षीरं

गोशतादपि गोक्षीरं प्रस्थं ग्रामशतादपि ।
प्रासादादपि खट्वार्धं शेषं परविभूतये ॥

--सुभाषितमञ्जरी ४९१-५०४
 
गोशताद् अपि गोक्षीरं प्रस्थं ग्रामशताद् अपि । प्रासादाद् अपि खट्वार्धं शेषं परविभूतये ॥
 
गोशताद् अपि गोक्षीरं, ग्रामशताद् अपि प्रस्थं, प्रासादाद् अपि खट्वार्धं, शेषं परविभूतये (भवति)॥
 
सौ गायों से (बढ़कर) गाय का दूध है;  सौ गाँवों से (अधिक) एक छोटा सा (रहनेका) स्थान है; राजमहल से भी (बढ़कर) पलंग का आधा भाग है। बाकी सब दूसरों के भलाई के लिए है।
 
వంద ఆవులకన్నా ఒకదాని పాలు శ్రేష్ఠం. వంద ఊళ్ళకన్నా కాస్త చోటు నయం. భవంతికన్నా మంచంలో సగం మేలు. మిగిలిందంతా ఇతరుల సంక్షేమం కోసమే.

Cow’s milk is better than a hundred cows. A small piece of land is better than a hundred villages. Half of a bed is better than a palace. Everything else is for others’ welfare.

विदग्धा वाक् 111 - सर्वे कङ्कण-

सर्वे कङ्कणकेयूरकुण्डलप्रतिमा गुणाः ।
शीलं चाकृत्रिमं लोके लावण्यमिव भूषणम् ॥

--सुभाषितसुधानिधिः पु. ५११


सर्वे कङ्कण-केयूर-कुण्डल-प्रतिमा गुणाः । शीलं च अकृत्रिमं लोके लावण्यम् इव भूषणम् ॥


कङ्कण-केयूर-कुण्डल-प्रतिमा गुणाः । लोके शीलं च अकृत्रिमं लावण्यम् इव भूषणम् ॥


सभी गुण कंगन, बाजूबंद, झुमके, जैसे बाहरी अलंकार हैं। सुशीलता ही संसार में एक सहज गुण है, जो लावण्य भाव के समान आभूषण है।


ఇతర గుణాలన్నీ గాజులు, వంకీలు, కమ్మలవంటివి. శీలమే ఈ లోకంలో లావణ్యం వంటి సహజమైన ఆభూషణము.


(All) The other virtues are like bangles, armlets, earrings etc. Conduct is the only natural ornament in the world, like loveliness (or charm).

विदग्धा वाक् 110 - अन्तस्तिमिरनाशाय

अन्तस्तिमिरनाशाय शाब्दबोधो निरर्थकः ।
न नश्यति तमो नाम कृतया दीपवार्तया ॥

--सूक्तिमाला २५१

अन्तस्तिमिर-नाशाय शाब्दबोधः निरर्थकः । न नश्यति तमः नाम कृतया दीप-वार्तया ॥

अन्तस्तिमिर-नाशाय शाब्दबोधः निरर्थकः (भवति) । तमो नाम दीपवार्तया कृतया न नश्यति ॥

अन्दर के अन्धेरे का नाश के लिए शब्दों का बोध व्यर्थ है। दिये की बात मात्र करने से अन्धेरे का नाश नहीं होता है। 

ఆంతరికమైన చీకటి నశించటం కోసం మాటలను అర్థం చేసుకోవటం (మాత్రమే) పనికిరాదు. దీపం గురించి మాట్లాడినంతమాత్రాన చీకటి నశించదు. 

Knowing the meanings of words (alone) is not helpful in removing the inner darkness. Darkness does not disappear by talking about light.

विदग्धा वाक् 109 - सर्वेषामेव शौचानाम्

सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्।
योऽर्थे शुचिस्स हि शुचिर्न मृद्वारिशुचिः शुचिः ॥

--मनुस्मृतिः ५.१०६

सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतम्। यः अर्थे शुचिः सः हि शुचिः न मृद्-वारि-शुचिः शुचिः ॥

सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतम्। यः अर्थे शुचिः सः हि शुचिः । मृद्वारिशुचिः न शुचिः ॥

सभी शुचियों में धन संबन्धित पवित्रता ही सर्वोपरि है। जो धनविषय में निर्मल है, वही वास्तव में निर्मल है। जो मिट्टी और पानी से शुद्ध है, वह नहीं।  

అన్ని నిర్మలత్వాలలో ధనశుచి ఉత్తమమైనది. ఎవరు డబ్బు విషయంలో పవిత్రంగా ఉంటాడో అతడే నిజంగా నిర్మలుడు. మట్టి, నీరుతో శుభ్రంగా ఉండేవాడు పవిత్రుడు కాదు. 

Among all the forms of cleanliness, the ultimate one is monetary cleanliness. One who is clean in money-matters is actually clean. One who is clean by soil and water is not.