Thursday 22 September 2016

सुभाषितम् - प्रथमे नार्जिता विद्या


प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम्।
तृतीये नार्जिता कीर्तिः चतुर्थे किं करिष्यति॥

अन्वयः-
   --(येन) प्रथमे (वयसि) विद्या न अर्जिता; द्वितीये (वयसि) धनं न अर्जितम्; तृतीये (वयसि) कीर्तिः न अर्जिता; (सः) चतुर्थे (वयसि) किं करिष्यति?

भावानुवादः-
   --येन मनुष्येण प्रथमावस्थायां विद्या नाधिगता, द्वितीयावस्थायां वित्तं न उपार्जितं, तृतीयावस्थायां यशः न लब्धं, सः चतुर्थावस्थायां (वृद्धावस्थायां) किं कर्तुं, प्राप्तुं वा शक्नोति?

हिन्दी-अनुवादः-
   --जिसने जीवन की प्रथम अवस्था में विद्या, दूसरी अवस्था में धन और तीसरी अवस्था में कीर्ति प्राप्त न की हो, वो मनुष्य चौथी (वृद्धावस्था) में क्या करेगा, क्या प्राप्त कर सकेगा?

No comments:

Post a Comment