Wednesday 7 September 2016

सुभाषितम् - काकैः सह प्रवृद्धस्य




काकैः सह प्रवृद्धस्य कोकिलस्य कला गिरः।
खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ 

अन्वयः-
   -- काकैः सह प्रवृद्धस्य कोकिलस्य गिरः कला । कल्याण-प्रकृतेः खलसङ्गे अपि नैष्ठुर्यं कुतः?  

भावानुवादः-
    --वायसैः सह पालितस्योऽपि पिकस्य स्वरमाधुर्यं तथैव तिष्ठति। यथा सज्जनमनुष्यस्य दुर्जनसाङ्गत्येऽपि निष्ठुरता कुतः जायते?

हिन्दी-अनुवादः-
     --कौए के साथ बड़े होने पर भी कोकिल की वाणी मधुर ही रहती है । (ऐसे ही) दुष्ट जन के संगत में रहने पर भी पवित्र प्रकृतिवाले (सत्पुरुष) में निष्ठुरता कहाँ से उत्पन्न होगी?

No comments:

Post a Comment