Wednesday 7 September 2016

सुभाषितम् - सहजोऽपि गुणः पुंसां



सहजोऽपि गुणः पुंसां साधुवादेन वर्धते।
कामं सुरसलेपेन कान्तिं वहति काञ्चनम्॥

अन्वयः-
   --पुंसां सहज अपि गुणः साधुवादेन वर्धते। कामं सुरसलेपेन काञ्चनं कान्तिं वहति ।

भावानुवादः-
   --पुरुषेषु यो गुणः सहजरूपेणास्ति स तस्य प्रशंसया अधिकं वर्धते; यथा सुवर्णस्य कान्तिः यथेप्सितं सुरसलेपेन वर्धते तथा।

हिन्दी-अनुवादः-
   --मनुष्य में स्थित स्वाभाविक गुण भी उसकी प्रशंसा करने से (शाबाशी देने से) बढ़ता है। सुंदर सुवर्ण भी अच्छे पदार्थों के लेपन से उत्कृष्ट कांति पाता है।

No comments:

Post a Comment