Wednesday 14 September 2016

सुभाषितम् - जडे प्रभवति प्रायो


जडे प्रभवति प्रायो दुःखं बिभ्रति साधवः।
शीतांशावुदिते पद्माः सङ्कोचं यान्ति वारिणि ॥

अन्वयः-
   -- प्रायः साधवः जडे प्रभवति (सति) दुःखं बिभ्रति । शीतांशौ उदिते (सति) पद्माः वारिणि सङ्कोचं यान्ति ॥

भावानुवादः-
    --यथा शशिनः उद्गमेन कमलानि मुकुलीभवन्ति, तथैव जडमनुष्यस्य उद्भवेन सज्जनाः व्यथां प्राप्नुवन्ति।

हिन्दी-अनुवादः-
    --जब चंद्रोदय होता है, तब कमल संकुचित हो जाते हैं । वैसे ही, जड़ मनुष्य का जब उदय होता है तब प्रायः सज्जन दुःखी होने लगते हैं।

No comments:

Post a Comment