Wednesday 7 September 2016

सुभाषितम् - विषस्य विषयाणां हि


विषस्य विषयाणां हि दृश्यते महदन्तरम्।
उपभुक्तं विषं हन्ति विषयाः स्मरणादपि॥

अन्वयः-
   --विषस्य विषयाणां हि महदन्तरं दृश्यते । विषं उपभुक्तं हन्ति। विषयाः स्मरणाद् अपि (घ्नन्ति)॥

भावानुवादः-
   --विष-विषययोः च मध्ये अनल्पो भेदः दृश्यते। विषस्तु भक्षितः प्राणान् हरति। किन्तु विषयाः स्मरणेनैव प्राणहारकाः।

हिन्दी-अनुवादः-
   --विष (जहर) तथा विषय -इन दोनों के बीच बड़ा अंतर दिखाई देता है। विष तो खाने पर ही मृत्यु देता है, लेकिन विषय तो स्मरण करने मात्र से मार देते हैं।

No comments:

Post a Comment