Monday 26 September 2016

सुभाषितम् - शरदि न वर्षति



शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो मेघः।
नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥

अन्वयः-
  --मेघः शरदि न वर्षति । (केवलं) गर्जति । (परन्तु स एव) वर्षासु निःस्वनः वर्षति । नीचः वदति (किन्तु उक्तं) न कुरुते । सुजनः न वदति । (युक्तं कार्यं) करोति एव ॥

भावानुवादः-
  --जलदः शरदि ऋतौ केवलं गर्जति, न वर्षति । वर्षर्तौ तु वर्षति, न गर्जति। तथैव अधमः केवलं वदति किन्तु यदुक्तं, तत् कार्यं न करोति; सज्जनः कार्यं करोत्येव, न (वृथा किमपि) वदति।

हिन्दी-अनुवादः-
  --शरदॠतु में बादल केवल गर्जन करते हैं, लेकिन बरसते नहीं है और वर्षाॠतु में जो बादल बरसते हैं वो गरजते नहीं। वैसे ही अधम मनुष्य केवल बोलता है, लेकिन (कार्य) करता नहीं है और उत्तम पुरुष बोलता नहीं, लेकिन (कार्य) करता है।

सुभाषितम् - कामं प्रियानपि प्राणान्



कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः।
इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥

अन्वयः-
 --मनस्विनः प्रियान् अपि प्राणान् कामं विमुञ्चन्ति । अमित्रेभ्यः तु महतीम् अपि सत्क्रियां न इच्छन्ति ॥

भावानुवादः-
  --प्रशस्तमनोयुक्ताः जनाः निजप्राणान् स्वेच्छया त्यजन्ति । किन्तु शत्रोः सकाशात् सत्कारं न कदापि इच्छन्ति ।

हिन्दी-अनुवादः-
  --प्रशस्त मन वाले पुरुष अपने प्रिय प्राण को भी स्वेच्छापूर्वक त्याग देते है लेकिन शत्रुओं से कितना भी बड़ा आदर-सत्कार नहीं चाहते है।

Sunday 25 September 2016

सुभाषितम् - अहो बत महत्कष्टं


अहो बत महत्कष्टं विपरीतमिदं जगत्।
येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥

अन्वयः-
     --अहो, बत, महत् कष्टम् । इदं जगत् विपरीतम् । येन साधुः अपत्रपते, तेन असाधुः तुष्यति ॥

भावानुवादः-
      --अहो, महत्क्लेशकरमेतत्! विश्वमिदं विपर्यस्तं वर्तते! येन कर्मणा सज्जनो लज्जते, तेनैव कर्मणा दुर्जनः प्रसन्नतां प्राप्नोति।

हिन्दी-अनुवादः-
      --यह कितने बड़े दुःख की बात है! और ये जगत भी कितना विपरीत है! जिस कार्य को करने में सज्जन लज्जित होता है, उसी कार्य को करने से दुर्जन खुश होता है।