Saturday 3 September 2016

सुभाषितम् - काकतालीयवत् प्राप्तं



काकतालीयवत् प्राप्तं दृष्ट्वापि निधिमग्रतः ।
न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥हितोपदेशः- .३५॥


अन्वयः-

   --काक-तालीय-वत् प्राप्तं निधिम् अग्रतः दृष्ट्वा अपि स्वयं दैवं न आदत्ते । पुरुषार्थम् अपेक्षते ॥

भावानुवादः-

   --काक-तालीय-न्यायेन (अकस्मात्, अप्रयत्नेन) नयनयोः अग्रे निधिं अवलोक्यापि, तं दैवात् लब्धुं न शक्यते। तत्रापि उद्यम अपेक्ष्यते।

हिन्दी-अनुवादः-

   --काकतालीय न्याय से (अर्थात् अकस्मात्, भाग्य से) सामने प्राप्त हुए धन को भी उठाकर रखने में पुरुषार्थ की आवश्यकता रहती ही है ॥

No comments:

Post a Comment