Saturday 3 September 2016

सुभाषितम् - पूर्वजन्मकृतं कर्म



पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते ।
तस्मात् पुरुषकारेण यत्नं कुर्यादतन्द्रितः ॥हितोपदेशः- .३३॥

अन्वयः-
  --पूर्वजन्म-कृतं कर्म तद् ‘दैवम्’ इति कथ्यते । तस्मात् अतन्द्रितः पुरुषकारेण यत्नं कुर्यात् ॥

भावानुवादः-
   --यत् पूर्वस्मिन् जन्मनि आत्मना कृतं, तदेव कर्म इदानीम् (अस्मिन् जन्मनि) दैवम् इति अभिधीयते। अत एव (सर्वं भाग्यमिति उदासीन अभूत्वा) आलस्येन विना (कार्यसिद्धये) प्रयत्नः कर्तव्यः।

हिन्दी-अनुवादः-

   --पूर्वजन्म में किया हुआ कर्म ही दूसरे जन्म में भाग्य कहा जाता है । इसलिये मनुष्य को पुरुषार्थं (उद्योग, कर्म) करना ही चाहिए ॥

No comments:

Post a Comment