Friday 23 September 2016

सुभाषितम् - सम्पदो महतामेव



सम्पदो महतामेव महतामेव चापदः।
वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥

अन्वयः-
  --सम्पदः महताम् एव (जायन्ते)। आपदः च महताम् एव (सम्भवन्ति)। चन्द्रः वर्धते, क्षीयते (च) ; क्वचित् तु तारागणः न (वर्धते, क्षीयते वा)॥

भावानुवादः-
  --महापुरुषा एव समृद्धीः विपत्तीः च प्राप्नुवन्ति। चन्द्रमसः एव उपचयः अपचयः च सम्भवतः, न कुत्रापि तारागणस्य वृद्धिक्षयौ दृश्येते।

हिन्दी-अनुवादः-
  --महापुरुषों को ही संपत्ति और विपत्ति प्राप्त होती रहती है (साधारण मनुष्य को नहीं)। चंद्रमा का ही वृद्धि और क्षय होता है, साधारण ताराओं का नहीं।

1 comment:

  1. समिचिनम् अस्ति भो:
    के एस् रागव:

    ReplyDelete