Wednesday 7 September 2016

सुभाषितम् - अमृतं चैव मृत्युश्च




अमृतं चैव मृत्युश्च द्वयं देहप्रतिष्ठितम्।
मोहादापद्यते मृत्युः सत्येनापद्यतेऽमृतम्॥

अन्वयः-
   --अमृतं चैव मृत्युः च द्वयं देहप्रतिष्ठितम्। मोहाद् मृत्युः आपद्यते। सत्येन अमृतम् आपद्यते ।

भावानुवादः-
   --अमरत्वं मृत्युश्च द्वावपि एकस्मिन्नेव शरीरे वसतः। मोहकारणात् मरणं प्राप्यते। सत्याचरणाद् अमृतं च।

हिन्दी-अनुवादः-
    --अमरता तथा मृत्यु- ये दोनों एक ही देह में रहते है। मोह के कारण मृत्यु होती है और सत्याचरण से अमरता प्राप्त होती है।

No comments:

Post a Comment