Thursday 5 December 2019

विदग्धा वाक् 126 - यस्मिन् रुष्टे भयं

यस्मिन् रुष्टे भयं नास्ति तुष्टे नैव धनागमः ।
निग्रहानुग्रहौ न स्तः स रुष्टः किं करिष्यति ॥

--सुभाषितरत्नभाण्डागारः पु. १५७.१७६

यस्मिन् रुष्टे भयं न अस्ति तुष्टे न एव धनागमः । निग्रह-अनुग्रहौ न स्तः सः रुष्टः किं करिष्यति ॥

यस्मिन् रुष्टे भयं न अस्ति, तुष्टे धनागमः न एव, (यस्य) निग्रह-अनुग्रहौ न स्तः, सः रुष्टः किं करिष्यति ॥

जिसके क्रुद्ध होने पर (हमारा) भय नहीं है, सन्तुष्ट होने पर धनलाभ नहीं होपाता, जिसका अनुग्रह और निग्रह नहीं हैं, वह क्रोधित होकर क्या करेगा? 

ఎవరికి కోపం వస్తే మనకు భయం ఉండదో, ఎవరు సంతోషిస్తే మనకు ధనలాభం జరగో, ఎవరికి నిగ్రహం అనుగ్రం లేవో, అతడికి కోపం వస్తే మాత్రంఏం చేస్తాడు?

The one who, when angry, does not cause any fear (in us), on whose being happy, there is no income, one who does not have restraint or kindness- what does he do, even if he gets angry?

No comments:

Post a Comment