Thursday 5 December 2019

विदग्धा वाक् 92 - क्षमाधनुः करे यस्य

क्षमाधनुः करे यस्य दुर्जनः किं करिष्यति ।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥

--समयोचितपद्यमालिका पु. १८
 
क्षमा-धनुः करे यस्य दुर्जनः किं करिष्यति । अतृणे पतितः वह्निः स्वयम् एव उपशाम्यति ॥
 
यस्य करे क्षमा-धनुः (अस्ति तं) दुर्जनः किं करिष्यति ? अतृणे पतितः वह्निः स्वयम् एव उपशाम्यति ॥
 
जिसके हाथ में क्षमा नाम का धनुष है, उसे दुष्ट क्या कर सकता है? आग घास में न पड़कर कहीं और गिरे तो स्वयं ही शान्त होजाता है।
 
క్షమ అనే ధనుస్సు చేత కలిగి ఉన్నవాడిని దుష్టుడు ఏం చేయగలడు? గడ్డి కానిచోట నిప్పుపడితే తానే ఆరిపోతుంది. 
 
What can the wicked do to one who has the bow of compassion in his hands? Fire fallen on non-grass extincts itself.

No comments:

Post a Comment