Thursday 5 December 2019

विदग्धा वाक् 96 - सन्तः कुर्वन्ति

सन्तः कुर्वन्ति यत्नेन धर्मस्यार्थे धनार्जनम् ।
धर्माचारविहीनानां द्रविणं मलसञ्चयः ॥

--धम्मपदम् १४.४


सन्तः कुर्वन्ति यत्नेन धर्मस्य अर्थे धनार्जनम् । धर्म-आचार-विहीनानां द्रविणं मल-सञ्चयः ॥


सन्तः धर्मस्य अर्थे यत्नेन धनार्जनं कुर्वन्ति । (किन्तु) धर्माचारविहीनानां द्रविणं मलसञ्चयः (इव भवति) ॥


सन्तजन धर्म के लिए प्रयत्न से धन कमाते हैं। जो धर्म और आचारों से रहित हैं, उनका धनार्जन मल संग्रह करने के समान है।


సజ్జనులు ధర్మం కొరకు ప్రయత్నించి ధనసంపాదనం చేస్తారు. ధర్మం ఆచారం లేనివారి యొక్క డబ్బు మలం సంగ్రహం (వంటిది).


Noble people earn money effort-fully for the sake of dharma. Whereas the wealth of those devoid of dharma, is like a collection of dirt.

No comments:

Post a Comment