Thursday, 5 December 2019

विदग्धा वाक् 99 - कामक्रोधावनिर्जित्य

कामक्रोधावनिर्जित्य किमरण्ये करिष्यति ।
अथवा निर्जितावेतौ किमरण्ये करिष्यति ॥
--सुभाषितसुधानिधिः पु. ६५.२४
 
काम-क्रोधौ अनिर्जित्य किम् अरण्ये करिष्यति । अथवा निर्जितौ एतौ किम् अरण्ये करिष्यति ॥
 
काम-क्रोधौ अनिर्जित्य अरण्ये किं करिष्यति ? अथवा एतौ निर्जितौ । (ततः) अरण्ये किं करिष्यति ॥
 
कामवासना व क्रोध को जीते (=वश में किए) बिना वन में क्या करेगा ? अथवा यह दोनों जीत लिए गए, फिर जंगल में क्या करेगा?
 
కామక్రోధాలను గెలవకుండా (=వశం చేసుకోకుండా) అడవిలో ఏం చేస్తాడు? లేదా, ఈ రెండూ గెలవబడితే అరణ్యంలో ఏం చేస్తాడు?
 
What shall one do in the forest, when one has not conquered the desire and anger? Or what will one do in the wilds, when both of these are won over?

विदग्धा वाक् 98 - वैरायते सुहृद्भावः

वैरायते सुहृद्भावः प्रदानं हरणायते।
दर्पभूताभिभूतस्य विद्या मौर्ख्यशतायते ॥
--दर्पदलनम् १.३४


वैरायते सुहृद्भावः प्रदानं हरणायते। दर्पभूत-अभिभूतस्य विद्या मौर्ख्य-शतायते ॥


दर्पभूताभिभूतस्य सुहृद्भावः वैरायते, प्रदानं हरणायते, विद्या मौर्ख्यशतायते ॥


जो अहंकार से भरा हुआ है, उसका स्नेहभाव शत्रुता जैसी, दान चोरी जैसी, और ज्ञान सौगुना मूर्खता जैसी होती है।


గర్వంతో నిండినవాడికి స్నేహభావం శత్రుత్వంలా అవుతుంది. దానం దొంగతనం వలె అవుతుంది. జ్ఞానం నూరింతల మూర్ఖత్వమవుతుంది.


Of the one who is filled by arrogance, the friendship is like enmity, charity becomes like grabbing, learning is as if a hundred times of foolishness.

विदग्धा वाक् 96 - सन्तः कुर्वन्ति

सन्तः कुर्वन्ति यत्नेन धर्मस्यार्थे धनार्जनम् ।
धर्माचारविहीनानां द्रविणं मलसञ्चयः ॥

--धम्मपदम् १४.४


सन्तः कुर्वन्ति यत्नेन धर्मस्य अर्थे धनार्जनम् । धर्म-आचार-विहीनानां द्रविणं मल-सञ्चयः ॥


सन्तः धर्मस्य अर्थे यत्नेन धनार्जनं कुर्वन्ति । (किन्तु) धर्माचारविहीनानां द्रविणं मलसञ्चयः (इव भवति) ॥


सन्तजन धर्म के लिए प्रयत्न से धन कमाते हैं। जो धर्म और आचारों से रहित हैं, उनका धनार्जन मल संग्रह करने के समान है।


సజ్జనులు ధర్మం కొరకు ప్రయత్నించి ధనసంపాదనం చేస్తారు. ధర్మం ఆచారం లేనివారి యొక్క డబ్బు మలం సంగ్రహం (వంటిది).


Noble people earn money effort-fully for the sake of dharma. Whereas the wealth of those devoid of dharma, is like a collection of dirt.

विदग्धा वाक् 95 - अनिर्वेदमसिद्धेषु

अनिर्वेदमसिद्धेषु साधितेष्वनहङ्कृतिम् ।
अनालस्यं च साध्येषु कृत्येष्वनुगृहाण नः ॥

--
अनिर्वेदम् असिद्धेषु साधितेषु अनहङ्कृतिम् । अनालस्यं च साध्येषु कृत्येषु अनुगृहाण नः ॥
 
अनिर्वेदम् असिद्धेषु (कृत्येषु), अनहङ्कृतिं साधितेषु (कृत्येषु), अनालस्यं च साध्येषु कृत्येषु नः अनुगृहाण ॥
 
(भगवन्) हमें यह सब प्रदान करें- जो (कार्य) सिद्ध नहीं हो सके, उनके प्रति निराश न होना, जो (कार्य) साध लिए, उनके विषय में अहंकार न करना, जो अभी साधने वाले कार्य हों, उनमें आलसीपन न होना।
 
(భగవంతుడా,) వీటిని మాకు ప్రసాదించు- సిద్ధపడజాలని పనుల విషయమై నిరాశ లేకపోవటం, సాధించినవాటిలో అహంకరించకపోవటం, సాధించవలసిన వాటిలో సోమరితనం లేకపోవటం.
 
Please bless us with non-depression in unachieved things, non-arrogance in attained things, and non-laziness in attainable things.

विदग्धा वाक् 94 - गुणवान् सुचिरस्थायी

गुणवान् सुचिरस्थायी दैवेनापि न सह्यते।
तिष्ठत्येकां निशां चन्द्रः श्रीमान् सम्पूर्णमण्डलः ॥

--सूक्तिमुक्तावली ३०१

गुणवान् सुचिरस्थायी दैवेन अपि न सह्यते। तिष्ठति एकां निशां चन्द्रः श्रीमान् सम्पूर्ण-मण्डलः ॥

गुणवान्, सुचिरस्थायी दैवेन अपि न सह्यते। श्रीमान्, सम्पूर्णमण्डलः, चन्द्रः एकां निशां (एव) तिष्ठति ॥

जो गुणवान् हो, वह देर तक स्थिर रहता हो, ऐसा भाग्य भी नहीं सहता। पूर्ण मंडल वाला सुन्दर चन्द्र मात्र एक रात तक ठहरता है।

గుణవంతుడైనవాడు చాలాకాలం పాటు నిలిచి ఉండటాన్ని నియతి కూడా సహించదు. నిండుమండలంతో శోభిల్లే చంద్రుడు ఒక్కరాత్రి వరకే నిలుస్తాడు.

It is not tolerated by the destiny, that a virtuous person lives for long. The bright, full-disced moon stays only for a single night.

विदग्धा वाक् 93 - असहायः पुमानेकः

असहायः पुमानेकः कार्यान्तं नाधिगच्छति ।
तुषेणापि विनिर्मुक्तः तण्डुलो न प्ररोहति ॥

--पञ्चतन्त्रम् २.५१
 
असहायः पुमान् एकः कार्य-अन्तं न अधिगच्छति । तुषेण अपि विनिर्मुक्तः तण्डुलः न प्ररोहति ।
 
एकः पुमान् असहायः (सन्) कार्यान्तं न अधिगच्छति । तण्डुलः तुषेण अपि विनिर्मुक्तः न प्ररोहति ।
 
एक ही व्यक्ति बिना सहायता के कार्य को पूरा नहीं कर सकता। (इसका उदाहरण) छिलका निकाला हुआ चावल का दाना भी अंकुरित नहीं होता।
 
ఒక మనిషి సహాయం లేకుండా పనిని పూర్తిచేయలేడు. (ఇందుకు ఉదాహరణ) పైపొట్టు తీసేసిన బియ్యపుగింజ కూడా అంకురించజాలదు.
 
A person alone without help cannot reach the end of the task. Even the rice grain does not sprout when the husk is not removed.

विदग्धा वाक् 92 - क्षमाधनुः करे यस्य

क्षमाधनुः करे यस्य दुर्जनः किं करिष्यति ।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥

--समयोचितपद्यमालिका पु. १८
 
क्षमा-धनुः करे यस्य दुर्जनः किं करिष्यति । अतृणे पतितः वह्निः स्वयम् एव उपशाम्यति ॥
 
यस्य करे क्षमा-धनुः (अस्ति तं) दुर्जनः किं करिष्यति ? अतृणे पतितः वह्निः स्वयम् एव उपशाम्यति ॥
 
जिसके हाथ में क्षमा नाम का धनुष है, उसे दुष्ट क्या कर सकता है? आग घास में न पड़कर कहीं और गिरे तो स्वयं ही शान्त होजाता है।
 
క్షమ అనే ధనుస్సు చేత కలిగి ఉన్నవాడిని దుష్టుడు ఏం చేయగలడు? గడ్డి కానిచోట నిప్పుపడితే తానే ఆరిపోతుంది. 
 
What can the wicked do to one who has the bow of compassion in his hands? Fire fallen on non-grass extincts itself.